पौरस्त्यस्तोयदर्तोः पवन इव पतत्पावकस्येव धूमो
विश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः
सन्ध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥५५॥
अन्वयः– तोयदर्तोः पौरस्त्यः पवनः इव पावकस्य पतन् धूमः इव, विश्वस्य आदिसर्गः इव, वेदराशेः परं पावनः प्रणवः इव, सन्ध्यानृत्त्योत्सवेच्छोः मदनरिपोः नन्दिनान्दीनिनाद इव सौरस्य स्यन्दनस्य अग्रे विनतानन्दनः वः सुखं वितरतु ॥५५॥
व्याख्या– तोयदर्तोः तोयदः यः ऋतुः तस्य वर्षर्तोः, अग्रे पौरस्त्यः पूर्वदिग्भवः, पवन इव वायुरिव, वर्षर्तोः प्राक् पूर्वदिग्भवः पवनः वृष्टिं सूचयति, पावकस्य पतन् उद्भवन् धूमः इव, विश्वस्य आदिसर्गः इव, प्रथमसृष्टिः इव (अपएव ससर्जादौ इति श्रुतेः), वेदराशेः चतुर्णां वेदानां परं पावनः पवित्रकारी प्रणवः ओंकारः इव, मन्त्रपाठात् पूर्वम् ओंकारः उच्चार्यते, सन्धानृत्योत्सवेच्छोः सन्ध्यायां नर्तनोत्सुकस्य मदनरिपोः शिवस्य नन्दिनान्दीनिनाद इव, नन्दिना आनन्देन विहितः पटहनादः इव, सौरस्य स्यन्दनस्य सूर्यरथस्य अग्रे स्थितः विनतानन्दनः अरुणः वः युष्मभ्यं सुखं वितरतु । मालोपमालङ्कारः ॥५५॥
भावार्थः– वर्षर्तोः प्राक् पूर्वदिग्भवः पवनः इव, ज्वलनोन्मुखस्य अग्नेः प्राक् धूमः इव, विश्वसृष्टेः प्राक् सृष्टं जलमिव, वेदमन्त्रपाठात् प्राक् उच्चार्यमाणः ओंकार इव, ताण्डवेच्छोः शिवस्य नर्तनात् प्राक् नन्दिकृतः आनन्दोत्थः पटहनाद इव, सूर्यरथस्य अग्रे उपविष्टः अरुणः युष्मभ्यं सुखं वितरतु ॥५५॥
हिन्द्यर्थः– वर्षा ऋतुके पहले पूर्वी पवनकी भाँति, अग्निके पहले धूमके समान, सृष्टिके आदिसर्ग जलके तुल्य, वेदमन्त्रोंके पहले पवित्र प्रणव ओंकारके सदृश, शिवजीके सन्धाकालीन नृत्यके पूर्व नन्दीके द्वारा की गयी वाद्यध्वनिके समान, सूर्यरथके सम्मुख भागमें बैठे हुए विनतापुत्र अरुण आप लोगोंको सुख दे॥५५॥
आङ्ग्लार्थः-- As the eastern wind comes before the rains, smoke before fire, the first one (i.e. water) before creation of the universe, the holy orhkar, before the Vedas, and the melodious sound of drum, made by Nandi, before the evening dance of Siva, so Aruna sits before the Sun in the chariot. May he confer happiness on you. 55
తెలుగు అర్థం--
అవిగో, అరుణ రేఖలు కనిపిస్తున్నాయి. అనూరుడు దర్శనమిస్తున్నాడు.
సూర్య సారథి అనూరుడు రావటం వర్షఋతువుకు ముందు వచ్చే తూర్పుగాలి వలె ఉన్నది. అరుణసారథి అగ్ని ఆవిర్భవించటానికి ముందు వచ్చే ధూమం వలె వస్తున్నాడు.
ప్రపంచానికి ముందు జరిగిన ఆదిమసృష్టివలె ఉన్నాడు ఆ అనూరుడు. మరింకా భావన చేస్తే అనూరుడు వేదరాశికి ప్రథమస్థానంలో నిలిచే పవిత్ర ప్రణవనాదం వలె ప్రకాశిస్తున్నాడు.
నిత్య సంధ్యా తాండవంలో మహానటరాజు ముందు నడిచే నందీశ్వరుడా, నాందియా అన్నట్లుగా ఉన్నాడు. ఇలా ఊహించిన కొద్దీ మహోన్నత భావాలకు పాదు అవుతున్నాడు అరుణసారథి.
వినతాదేవి ముద్దుల పెద్దబిడ్డ అరుణుడు మీకు సుఖాలను ప్రసాదించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment