॥अथ अरुणवर्णनम् ॥
प्रातः शैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मीः
विक्षिप्तापूर्वपुष्पाञ्जलिमुडुनिकरं सूत्रधारायमाणः ।
यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव जातप्रतिष्ठाम्
अव्यात्प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥५०॥
प्रातः शैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मीः
विक्षिप्तापूर्वपुष्पाञ्जलिमुडुनिकरं सूत्रधारायमाणः ।
यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव जातप्रतिष्ठाम्
अव्यात्प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥५०॥
अन्वयः– प्रातः शैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मीः उडुनिकरम् एव अपूर्वपुष्पाञ्जलिं विक्षिप्य सूत्रधारायमाणः कृतरुचिषु अह्नः चतुर्षु यामेषु इव अङ्केषु जातप्रतिष्ठां जगदटनमहानाटिकां प्रस्तावयन् सूर्यसूतः वः अव्यात् ॥५०॥
व्याख्या– प्रातः शैलस्य अग्रम् एव रङ्गः नृत्यमण्डपः, तस्मिन् रजनिः एव जवनिका तस्याः अपायेन संलक्ष्या लक्ष्मीः यस्य तथाभूतः रात्रिजवानिकापनयनेन परिलक्षितश्रीः (सूर्यसूतः) उडुनिकरं नक्षत्रसमूहम् एव अपूर्वपुष्पाञ्जलिं विक्षिप्य विकीर्य सूत्रधारायमाणः सूत्रधार इव आचरन् कृता सृष्टा रुचिः शोभा येषां तेषु अह्नः दिवसस्य चतुर्षु यामेषु प्रहरेषु इव अङ्केषु जाता प्रतिष्ठा स्थितिः ख्यातिश्च यस्याः तथाभूतां, जगदटनं जगद्भ्रमणम् एव महानाटिका तां प्रस्तावयन् सूचयन् सूर्यसूतः सूर्यसारथिः अरुणः वः युष्मान् अव्यात् रक्षतु । रूपकोपमयोः सङ्करः ॥५०॥
भावार्थः– नृत्यमण्डपे जवनिकामपनीय पुष्पाणि विक्षिप्य सूत्रधारः यथा चतुरङ्कां नाटिका प्रस्तौति, तद्वत् सूर्यसारथिः अरुणः प्रभाते रात्रिरूपां जवनिकाम् अपनीय नक्षत्ररूपम् अपूर्वपुष्पाञ्जलिं विक्षिप्य उदयाद्रिरूपे रङ्गमण्डपे जगद्भ्रमणरूपां, दिनस्य चतुर्षु यामेषु इव चतुर्षु अङ्केषु सुसम्पन्नां, महानाटिकां प्रस्तौति । सः अरुणः युष्मान् रक्षतु ।
टिप्पणी– उत्कृष्टकोटिकेयं रूपकोपमासंबद्धा कृतिः॥५०॥
हिन्द्यर्थः– प्रभातमें उदयाचलके उपरिभाग रङ्गमञ्च पर रात्रिरूपी जवनिकाके हटजाने पर सुन्दर दृश्य हुए, सूत्रधारके समान ताराकुसुमों की अपूर्व पुष्पाञ्जलि विकीर्ण करने वाले, सुन्दर भावसे किए हुए दिवसके चार प्रहरके समान चार अङ्कोंसे शोभित जगद् भ्रमणरूप महानाटिकाकी प्रस्तावना करनेवाले सूर्यके सारथि आप लोगोंकी रक्षा करे॥५०॥
आङ्ग्लार्थः-- The charioteer of the Sun performs the role of a stage-manager (Sutradhara), removes the night-screen, throws star-like flowers on the stage, unveils beautiful scenes, and introduces a nice play of four acts resembling four yamas of the day, on the topic of great wandering of the world. May that charioteer save you. 50
తెలుగు అర్థం--
అదిగో, ప్రాతఃశైలాగ్ర భాగాన రంగస్థలం సిద్ధమైంది. రజనీ అనే యవనిక తొలగించబడింది.
అరుణుడు సూత్రధారియై రంగప్రవేశం చేస్తున్నాడు. మంగళవాద్యాలు మోగుతున్నాయి. ఆ మహాపురుషుడు కరకమలాలతో నక్షత్రమల్లికా పుష్పాలు వెదజల్లి నాటకానికి ప్రస్తావన చేస్తున్నాడు.
అది రవిరాజు జగత్పర్యటన నాటకం. అందులో అంకాలు నాలుగు. పగలు నాలుగు జాములు, నాలుగు అంకాలు. అలిశుకాదులు మంగళవాద్యాలు ఊదుతున్నాయి. ఆదిత్యుడు రాబోతున్నాడు. సూర్యరథసారథి అనూరుడు ముందుగా వచ్చి ప్రస్తావన జరుపుతున్నారు. ఆ అనూరుడు జగన్నాటకులైన ప్రేక్షకులైన మీకు శుభము కలిగించుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా
No comments:
Post a Comment