Sunday, June 24, 2018

सूर्यशतकम् - 14 (महाकवि-श्रीमयूरप्रणीतम्)

आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेव
ग्रीष्मे दावाग्नितप्ता इव रसमसकृद् ये धरित्र्या धयन्ति ।
ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमर्तौ
मार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीषवो वो भवन्तु ॥१४॥


अन्वयः– आवृत्तिभ्रान्तविश्वाः श्रमं दधतः इव, स्वोष्मणा शोषिणः इव, ग्रीष्मे दावाग्नितप्ताः इव ये असकृत् धरित्र्याः रसं धयन्ति, आत्तपानातिशयरुजः इव प्रावृषि उद्वान्ततोयाः हिमर्तौ अप्रचण्डाः मार्तण्डस्य ते अभीषवः वः चिरम् अशुभभिदे भवन्तु ॥१४॥

व्याख्या– आवृत्या पौनःपुन्येन प्रान्तं विश्वं यैः ते जगद्भ्रमणकारिणः श्रमं दधतः इव श्रान्ता इव, स्वस्य उष्मणा तापेन शोषिणः शुष्काः तृषार्ताः इव, ग्रीष्मे दावाग्निना दावानलेन तप्ताः इव, ये अभीषवः किरणाः, (अभीषुः प्रग्रहे रश्मौ– इत्यमरः), असकृत् भूयः धरित्र्याः पृथिव्याः रसं धयन्ति पिबन्ति, आत्तपानातिशयरुजः आत्तं गृहीतं यत् पानं, पीतं पानीयमित्यर्थः तेन हेतुना अतिशया रुक् रोगः येषां ते तथाभूताः इव प्रावृषि वर्षर्तौ उद्वान्ततोयाः उद्वान्तं तोयं जलमन्तःस्थं यैः ते, हिमर्तौ अप्रचण्डाः मन्दाः, मार्तण्डस्य सूर्यस्य ते अभीषवः किरणाः वः युष्माकं चिरम् अशुभभिदे अमङ्गलविनाशाय भवन्तु । उत्प्रेक्षालङ्कारः ॥१४॥

भावार्थः– पुनः पुनः विश्वभ्रमणेन श्रान्ताः स्वदेहस्य उष्मणा पिपासवः इव, पुनश्च ग्रीष्मे दावाग्नितप्ताः इव सूर्यस्य ये किरणाः पृथिव्याः रसं पिबन्ति, अत्यधिकपानेन रोगाक्रान्ता इव वर्षर्तौ जलम् उद्वमन्ति, हिमर्तौ नात्युष्णाः सूर्यस्य ते किरणाः युष्माकम् अमङ्गलं विनाशयन्तु ।
यथा कश्चिज्जनः पानीयं भृशं पिबति, तेन जातोष्मा इतस्ततः भ्रमति, पानातिशय्यात् रोगीव वमति, ततश्च श्रान्तः सन् स्वपिति तद्वत् इत्यर्थः सूच्यते ॥१४॥

हिन्द्यर्थः– बहुवार विश्व भ्रमण करनेसे श्रान्त, अपने उष्मतासे तृषार्त और ग्रीष्म ऋतुमें दावाग्निसे सन्तप्त होने वालोंके सदृश जो पृथिवीके रस पान करती हैं और अधिक पीनेसे रोगीकी भाँति, वर्षा ऋतुंमे जल निगलनेवाली हेमन्तमें अप्रचण्ड सूर्यकी किरणें आपके अमङ्गल दूर करें॥ १४॥

आङ्ग्लार्थः-- As if exhausted of travelling the whole world again and again, getting thirsty thereby because of own heat, and turning hot as if by forest fire in summer, the rays of the Sun suck the water of the earth. Becoming too sick with excessive consumption they vomit water in rains, and turn weak in autumn. May those rays of the Sun remove always your worries. 14

తెలుగు అర్థం--
    అవిగో, సూర్యాంశువులు వెచ్చవెచ్చగా ఉన్నాయి. అవి మండువేసవిలో విశ్వమంతా వీరవిహారం చేయటం చేత కాబోలు డస్సి శ్రమ చెందినట్లున్నాయి.
    సూర్యకిరణాలు తమ తాపంచేత తామే తపించి కృశించి క్రుంగి కాగి పోతున్నాయి పాపం. అవి దావాగ్నిలో వేగి వేగి కనిపించిన చోట్లల్లా ఎక్కడపడితే అక్కడ నానా రకాల గుంటలలో నీల్ళు తాగి దప్పిక బాధ తీర్చుకున్నాయి.
    రవికుమారుడు గ్రీష్మంలో అధికజలపానం చేయటం వల్ల కాబోలు, వానికి వర్షాకాలంలో అతిసారం వాంతులు ప్రారంభమైనాయి. నీళ్ళు అధికంగా కక్కుకోవటం మొదలు పెట్టాడు.
    అంతటి ఉష్ణరశ్మి చలికాలంలో పాటవం తగ్గి చల్లని కిరణాలను ప్రసరింపచేస్తున్నాడు. మార్తాండుని కిరణాలు ఇలా రకరకాల దశలలో కనిపిస్తున్నాయి. ఆ సూర్యాంశువులు ప్రజలను చల్లగా కాపాడుగాక.   

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment