नोदन्वाञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्या
यस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ।
तेजोरूपापरैव त्रिषु भुवनतलेष्वादधाना व्यवस्थां
सा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलाग्रोद्गता वः ॥४३॥
अन्वयः– यस्याः उदन्वान् न जन्मभूमिः, तदुदरभुवः कौस्तुभाद्याः न बान्धवाः, पाणौ न पद्यं, नरकरिपूरःस्थली च न वासवेश्म, त्रिषु भुवनतलेषु व्यवस्थाम् आदधाना सा अशिशिरमहसः मण्डलाग्रोद्गता, अपरा तेजोरूपा एव श्रीः वः श्रेयांसि दिश्यात् ॥४३॥
व्याख्या– यस्याः श्रियः उदन्वान् उदधिः न जन्मभूमिः, जन्मस्थानं तदुदरभुवः तस्य उदधेः उदरभुवः उदरात् सञ्जाताः कौस्तुभाद्याः न बान्धवाः, पाणौ हस्ते न पद्मं, नरकस्य नरकासुरस्य रिपोः शत्रोः विष्णोः उरःस्थली न वासवेश्म न वासगृहम् त्रिषु भुवनतलेषु स्वर्गमर्त्यपातालेषु व्यवस्थां स्थितिम् आदधाना, सा अशिशिरम् उष्णं महः तेजः यस्य तस्य सूर्यस्य मण्डलाग्रोद्गता मण्डलोद्भूता अपरा तेजोरूपा श्रीः लक्ष्मीः वः युष्माकं श्रेयांसि मङ्गलानि दिश्यात् देयात् कुर्यादिति भावः । लक्ष्मीः विष्णोः उरसि स्थिता मण्डलोत्था श्रीस्तु त्रिभुवनावस्थानेति व्यतिरेकः॥४३॥
भावार्थः– या श्रीः सागरात् न सञ्जाता, समुद्रोत्पन्नाः कौस्तुभादयः यस्याः न बान्धवाः, यस्याः पाणौ न पद्मं, नारायणस्य उरःस्थली यस्याः न वासभूमिः त्रिषु भुवनेषु व्याप्ता, सौरमण्डलात् उत्पन्ना सा श्रीः युष्माकं श्रेयांसि विदधातु ॥४३॥
हिन्द्यर्थः– समुद्र जिसकी जन्मभूमि नहीं है, समुद्रसे जात कौस्तुभ आदि जिसके बान्धव नहीं हैं, हाथमें पद्म नहीं है, नरकरिपु विष्णुके वक्षस्थल जिसका निवास स्थान नहीं है, प्रसिद्ध लक्ष्मीसे विलक्षण, तीन भुवनमें वास करनेवाली सूर्यमण्डलसे समुद्भूत दूसरी तेजरूपा लक्ष्मी आप लोगोंका मङ्गल करें ॥४३॥
आङ्ग्लार्थः-- Sri (beautiful ray) emerging from the Sun spreads all over the three worlds. She is different from the Goddess Sri, for ocean is not her place of origin, nor kaustubha and others are her relatives. Neither she holds lotus in her hand, nor resides in the bosom of the killer of Naraka. May that Sri (beautiful ray) bless you. 43
తెలుగు అర్థం--
అదిగో! సూర్యప్రభాలక్ష్మి దర్శనమిస్తున్నది. ఆదిత్యలక్ష్మి ఆదిలక్ష్మికంటే విలక్షణమైనది.
ఆదిలక్ష్మి క్షీరసముద్రంలో జన్మించింది. కడలిలో పుట్టిన కౌస్తుభాదులు ఆమెకు తోబుట్టువులు. ఆ తల్లి కరకమలాలలో కమలాలను విలాసంగా ధరిస్తుంది. శ్రీమహావిష్ణువు వక్షఃస్థలం ఆమె నివాసస్థలం. ఆమె మూడు జగాలకు సంపదలు ప్రదానం చేస్తుంటుంది.
కానీ సూర్యతేజమనే లక్ష్మి ఆ ఆదిలక్ష్మికంటే చాలా విలక్షణంగా కనిపిస్తుంది.
ఈమె పాలసముద్రంలో పుట్టలేదు. ఈమెకు కౌస్తుభాదులు చెలులు కారు. హస్తాలు పద్మాలు కావు. హస్తాల్లోనూ పద్మాలు లేవు. శ్రీవిష్ణువక్షఃస్థలం ఈమెకు నివాసభూమీ కాదు. అయినా ఈ ఆదిత్యం లక్ష్మి మూడులోకాలకు సువ్యవస్థ కలిగించి తన తేజస్సుతో శ్రేయస్సులను ప్రసాదిస్తుంది.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment