Monday, June 25, 2018

सूर्यशतकम् - 77 (महाकवि-श्रीमयूरप्रणीतम्)

यत्प्राच्यां प्राक् चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहानाद्
इद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।
यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥७७॥


अन्वयः– यत् प्राच्यां प्राक् चकास्ति, उज्जिहानात् यतः असौ प्राची प्रभवति, अह्नः मध्ये यत् इद्धं भवति, ततरुचा येन अहः उत्पाद्यते, यत् पर्यायेण लोकान् अवति, यच्च जगतां जीवितं, विश्वं सृजत् अपि च विश्वानुग्राहि, तत् रवेः मण्डलं वः मुक्तये अस्तु ॥७७॥

व्याख्या– यत् मण्डलं प्राच्यां पूर्वस्यां दिशि प्राक् आदौ चकास्ति दीप्यते, उज्जिहानात् उद्गच्छतः यतः यस्मात् असौ प्राची पूर्वा दिक् प्रभवति, उत्कर्षेण वर्तते, अह्नः दिवसस्य मध्ये यत् इद्धं दीप्तं भवति, तता रुक् यस्य तेन व्याप्ततेजसा येन मण्डलेन अहः दिनम् उत्पाद्यते, यत् पर्यायेण क्रमेण, (गत्यर्थकात् इणो घञ्) लोकान् भुवनानि (लोकस्तु भुवने जने इत्यमरः), अवति रक्षति, यच्च जगतां जीवितं जीवनं, विश्वं सृजत् अपि च पुनश्च विश्वानुग्राहि विश्वपोषकं, तत् रवेः सूयस्य मण्डलं वः युष्माकं मुक्तये मोक्षाय अस्तु भवतु । आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः ॥७७॥

भावार्थः– सूर्यमण्डलं प्राक् प्राच्यां प्रकाशते, तेन प्राची दिक् सर्वोत्कर्षेण वर्तते । तन्मण्डलं क्रमशः दीप्तं सत् दिवसं सृजति, सर्वं जगच्च रक्षति, लोकानां जीवनं तस्मिन् निर्भरशीलम् । तदेव विश्वसृष्टेः हेतुभूतं जगन्मङ्गलविधायकं रवेः तन्मण्डलं युष्माकं मोक्षाय अस्तु ॥७७॥

हिन्द्यर्थः– जो मण्डल पूर्व दिशामें पहले प्रकाश पाता है, जिससे पूर्व दिशा गौरव विमण्डित होती है, दिनके मध्य भागमें जो प्रचण्ड होता है, जिससे दिनकी उत्पति होती है, जो पर्याय क्रमसे आकर संसारकी रक्षा करता है, जो जगतका जीवन है, विश्वके स्रष्टा और उपकारी है, वैसे होने वाला सूर्य मण्डल आप लोगोंको मुक्ति प्रदान करें ॥७७॥

आङ्ग्लार्थः-- The circle of the Sun appears first in the east. Ascending upwards it invests the east with glory. It shines brilliantly in the mid-day; spreading across its brilliance, it heralds the arrival of the day. It is the life-force of the worlds. It creates the entire universe and rears it. May that solar circle give you liberation. 77

తెలుగు అర్థం--
    అవిగో! అవి అర్కమండల మనోహర దీప్తులు, మంగళకరంగా ఆ ఉదయించేది ప్రాచీన దిశ. సూర్యుడు ఎటు పొడిస్తే అటు తూర్పు. దిక్కు లేనివారికి, దిక్కు తెలియనివారికి దిక్కు చూపెట్టేది దినకర సార్వభౌముడు, దినకరుడు కనిపిస్తే అది సుదినం.
    మార్తాండ మహామండలం దినభాగం ప్రకాశవంతంగా వెలుగుతున్నది. మార్తాండుడు వస్తేనే శుభోదయం తెలుస్తుంది. మార్తాండుడు వల్లనే మధ్యాహ్నం గ్రాహ్యమవుతుంది. సవితృదేవుడు సాయంత్రాన్ని కలుగచేస్తాడు. అర్కుడున్నప్పుడే అహము. ఆయన ఉన్నప్పుడే ఈరోజు గడిచేది.
    తపనుడు ఉష్ణకిరణ ప్రసారం చేసి మూడు జగాలను తపింప చేస్తాడు. తపనుడు తపింప చేయటం ప్రజల క్షేమం కోసమే. జీవకోటి చైతన్యం కోసమే. అలా చేయటం జీవుల అభివృద్ధి కొరకే. అది ప్రజలకు ప్రాణదానం వంటిది.
    ఆదిత్యదీప్తి అఖిల ప్రపంచానికి రక్షాకవచం. వరిమండలం మహాయోగీశ్వరులకు ముక్తిమార్గం చూపించే అఖండ జ్యోతి. ఆదిత్యుడు అందరికి ఆరోగ్యం ప్రసాదించుగాక. 

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment