Sunday, June 24, 2018

सूर्यशतकम् - 30 (महाकवि-श्रीमयूरप्रणीतम्)

रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं
वह्नेर्दार्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।
यत्तु त्रैलोक्यभूषाविधिरघदहनं ह्लादि वृष्ट्याशु तद्वो
बाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥३०॥


अन्वयः– नियतोद्देशलब्धावकाशं रत्नानां तेजः मण्डनाय, वह्नेः दार्वादि दग्धुम् इन्दोः निजजडिमतया आनन्दं कर्तुं प्रभवति, यत्तु त्रैलोक्यभूषाविधिः, अघदहनं, वृष्ट्या आशु ह्लादि, बाहुल्योत्पाद्यकार्याधिकतरं तत् एकम् एव अर्कतेजः वः अवतात् ॥३०॥

व्याख्या– नियतोद्देशलब्धावकाशं नियतः यः उद्देशः स्थानं तत्र लब्धः अवकाशः प्रकाशः यस्य तत् कर्णादिषु नियतस्थानेषु एव रत्नानां तेजः मण्डनाय प्रभवति, वह्नेः तेजः दार्वादि दारु प्रभृति एव दग्धुं प्रभवति, न तु रत्नवत् मण्डनाय प्रभवति, इन्दोः तेजश्च निजजडिमतया शीतलत्वेन हेतुना आनन्दं कर्तुं प्रभवति, न तु अग्निवत् दहनाय, नापि रत्नादिवत् मण्डनाय प्रभवति, परन्तु एकमेव अर्कतेजः त्रैलोक्यभूषाविधिः त्रिभुवनस्य भूषाविधिः भूषणम् अघदहनं पापनाशकं, वृष्ट्या आशु शीघ्रम् आह्लादि आनन्दप्रदम् अत एव बाहुल्योत्पाद्यकार्याधिकतरं, बाहुल्येन बहुलतया उत्पाद्यैः कार्यैः कर्मभिः अधिकतरं भवति, तादृशम् अर्कतेजः युष्मान् अवतात्। रक्षतु ॥३०॥

भावार्थः– रत्नानां तेजः निश्चितस्थानानां कर्णादीनां मण्डनाय प्रभवति । अग्नेः तेजः काष्ठादीन् दग्धुं प्रभवति । इन्दोस्तेजश्च शीतलतया आनन्दप्रदं भवति । परन्तु सूर्यस्य तेजः त्रैलोक्यभूषणं, पापादिनाशकं, वृष्ट्या शीघ्रमेव आनन्दप्रदं भवति, एवं बहुविधकार्यसम्पादकं श्रेष्ठम् एकमेव अर्कतेजः युष्मान् रक्षतु ॥३०॥

हिन्द्यर्थः– रत्न केवल निर्दिष्ट स्थानकी कान, (कण्ठ आदि) शोभा बढाता है, आग सिर्फ लकड़ी वगैरह दहन करती है, चाँद अपनी शीतलतासे केवल आनन्द देता है, लेकिन सूरजके तेज तीन भुवनोंकी शोभा बढाता है, पापको नाश करता है, वृष्टिसे सबको शीघ्र आनन्द देता है, ऐसे एक हुए भी अनेकोंका कार्य करनेवाला सूर्यका तेज आपकी रक्षा करें॥३०॥

आङ्ग्लार्थः-- Gems put in appropriate places enhance beauty, fire burns woods, moon gives pleasure for her cooling nature. But the beam of the Sun discharges all those activities more effectively. It is an ornament of the three worlds. It burns the sins and gives immediate pleasure by causing rains. May that solar light with its multifold actions protect you all. 30

తెలుగు అర్థం--
    సూర్యతేజం ఇతర తేజస్సులకంటే సర్వోపరి. ఆ తేజస్సుకు మించింది మరొకటి లేదు. లోకంలో అనేక తేజస్సులు ఉన్నాయి. కానీ అవన్నీ ఆదిత్య తేజస్సు ముందు తీసికట్టే.
    రత్నతేజం అలంకారప్రాయమే. కానీ దానికి దాహశక్తి లేదు. ఆహ్లాదమొసగే శక్తీ లేదు. దాని ప్రయోజనం పరిమితం. సీమిత ఆనందం అందిస్తుంది. అగ్ని శక్తికి దహించే గుణం ఉన్నదే కానీ అది అలంకారమూ కాదు, ఆనందమూ ఈయదు. ఇదీ పరిమిత ప్రయోజనకారి మాత్రమే.
    చంద్రకాంతి శీతలత్వాన్ని ప్రదానం చేస్తుంది. ఆమోదం ఆహ్లాదం కలిగిస్తుంది. కానీ అది స్పష్టమైన అలంకారమూ కాదు దహనకారీ కాదు. ఇక దీపపు వెలుగు గృహం వరకే పరిమితం.
    సూర్యదీప్తి బహు ప్రయోజనకారి. మూడు లోకాలకు అలంకారం. జీవకోటికి ప్రాణాధారం. అందకారానికి అజ్ఞానానికి అంతశ్శత్రువు. పాపజాలానికి దాహకం. ప్రజావాహినికి ఆహ్లాదకారకం.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment