Monday, June 25, 2018

सूर्यशतकम् - 75 (महाकवि-श्रीमयूरप्रणीतम्)

प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचलः पद्मरागेण येन
ज्यायः किञ्जल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममहोमूर्न्धि रत्नं महद्यद्
दीप्तांशोः प्रातरव्यात् तदविकलजगन्मण्डनं मण्डलं वः ॥७५॥


अन्वयः– यत् मण्डलम् अलिकुलशितेः अम्बरेन्दीवरस्य ज्यायःकिञ्जल्कपुञ्जः, प्रातः पद्मरागेण येन प्रत्युप्तः अचलः तप्तहेमोज्ज्वलरुचिः महिततमं कालव्यालस्य चिह्नम् अहोमूर्ध्नि महत् रत्नम् अविकलजगन्मण्डनं, दीप्तांशोः तत् मण्डलं वः अव्यात् ॥७५॥

व्याख्या– यत् मण्डलम् अलिकुलमिव शितेः नीलस्य, अम्बरमेव इन्दीवरं तस्य व्योमनीलोत्पलस्य ज्यायःकिञ्जल्कपुञ्जः ज्यायान् केसरराशिः, (प्रशस्य शब्दादीयसुनि, ज्य च इति ज्यादेशः) । प्रातः पद्मस्येव रागो यस्य तेन पद्मरागेण येन मण्डलेन प्राप्तः व्याप्तः अचलः तप्तहेम इव उज्ज्वला रुचिः यस्य सः तप्तस्वर्णाभः भवति, यत् महिततमं प्रशस्यतमं काल एव व्यालः सर्पः तस्य चिह्नं, पुनश्च अहोमूर्ध्नि दिवसशिरसि महत् रत्नम् अविकलं अखण्डं (चिरन्तनं) जगन्मण्डनं विश्वालङ्कारस्वरूपं दीप्तांशोः उष्णांशोः सूर्यस्य तत् मण्डलं वः युष्मान् अव्यात् रक्षतु । परम्परितं मालारूपकमलङ्कारः ॥७५॥

भावार्थः– यत् सूर्यमण्डलं भ्रमरवत् नीलाभस्य अम्बरनीलोत्पलस्य महान् केसरपुञ्जो भवति, प्रातः पद्मरागसदृशस्य यस्य भासा मेरुः तप्तकाञ्चनकान्तिं धारयति, कालसर्पस्य महत् चिह्नं, दिवसशिरसो महत् रत्नं, विश्वस्य अलङ्कारस्वरूपं, तत् प्राभातिकं सूर्यमण्डलं युष्मान् रक्षतु ॥७५॥

हिन्द्यर्थः– जो मण्डल अलि-कुल-नील आकाश नीलोत्पलके प्रभूत परागपुञ्ज हैं, प्रभातमें जिसके तेजसे मेरु पर्वत तरल सोनेकी कान्ति धारण करता है, काल सर्पके प्रदर्शक, दिवसके शिरपर महान रत्नके तुल्य जगतकी शोभावर्द्धक उष्णांशु सूर्यके वह मण्डल आप लोगोंकी रक्षा करें ॥७५॥

आङ्ग्लार्थः-- The most adorable orb of the Sun decorates the entire creation in the morning. It has the colour of the lotus/ruby. It invests the mountain with the brilliance of molten gold and looks like the long filaments of sky like lily resembling the colour of the cluster of bees. It is a distinguishing mark of time-like snake and appears as a magnificient crest-jewel on the head of the day. May that orb protect you. 75

తెలుగు అర్థం--
    అదిగో, ఆదిత్యమండలం, ఎంత మనోజ్ఞంగా ఉన్నది. అది ఈ ప్రాంతంలో ప్రకృతికి బంగారు భూషణంలాగా ఉన్నది.
    ఉదయ సమయంలో పూర్వదిశాభూమి బంగారు ముద్దవలె ఉన్నది. అందులో ప్రాచీన పర్వతం పై ప్రభాకరమండలం పద్మరాగ మణివలె భాసిస్తున్నది.
    ఆకాశం నల్ల కలువవలె ఉన్నది. దాని మీద భ్రమర నీలిమ కాంతివలె వెలుగులు వ్యాపించినాయి. ఆ అళిరాజు నీలిమల పై తగులుకొన్న పుప్పొడి సముదాయమా అన్నట్లు ఉన్నది సూర్యమండల ఛవి.
    కాలము కాళీయ సర్పం వలె ఉన్నది. కాళీయుడి శిరముపై మహారత్నం వలె ప్రకాశిస్తున్నది ప్రభాకర మండలం. ఆ మండలం జగత్తుకు మహామండనంగా మంగళకరంగా శోభలు విరజిమ్ముతున్నది.
     ఆ సూర్యమండలం మహీప్రజకు మంగళములు అందించుగాక.

----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्

మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:

Post a Comment