नन्तुं नाकालयानामनिशमुपयतां पद्धतिः पङ्क्तिरेव
क्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ।
ह्रेषह्लादो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो-
यस्याव्यात् तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥६९॥
अन्वयः– अनिशं नन्तुम् उपयतां नाकालयानां पङ्क्तिः एव यस्य पद्धतिः, अदयरयमिलच्चक्रपिष्टस्य नक्षत्रराशेः क्षोदः एव धूलिः, सुरशिखरिदरीः पूरयन् नेमिनादः हरीणां ह्रेषाह्रादः, यथा भुवि, दिवि व्यक्तचिह्नः, तीव्रभानोः सः रथः वः अव्यात् ॥६९॥
व्याख्या– अनिशं सन्ततं, नन्तुम् उपयताम् उपगच्छतां, नाकालयानां नाकः स्वर्गः एव आलयः गृहं येषां तेषां, दिविषदां पङ्क्तिः एव यस्य रथस्य पद्धतिः मार्गः, अदयः तीव्रः यो रयः वेगः, तेन मिलत् युक्तं यत् चक्रं, तेन पिष्टस्य दलितस्य नक्षत्रराशेः नक्षत्रसमूहस्य, क्षोदः चूर्णः एव धूलिः, सुरशिखरिणः मेरोः दरीः गुहाः, पूरयन् नेमिनादः एव अश्वानां ह्रेषाह्रादः हेषानन्दरवः, यथा भुवि भूतले, दिवि स्वर्गे अपि तथा व्यक्तचिह्नः व्यक्तानि प्रकटितानि चिह्नानि यस्य तथाभूतः, तीव्रभानोः तीव्राः प्रखराः भानवः किरणाः यस्य, तस्य सूर्यस्य सः रथः वः युष्मान् अव्यात् रक्षतु ॥६९॥
भावार्थः– सन्ततं नन्तुम् उपगच्छतां देवानां पङ्क्तिः यस्य रथस्य यानमार्गः, तीव्रवेगवता चक्रेण पिष्टस्य नक्षत्रराशेः चूर्णः यस्य रथस्य धूलिसदृशः, मेरोः कन्दराः पूरयन् नेमिनादः यस्य अश्वानां ह्रेषानन्दरवः, पृथिव्यामिव स्वर्गेऽपि प्रकटितगतिचिह्नः सः रवेः रथः युष्मान् रक्षतु ॥६९॥
हिन्द्यर्थः– निरन्तर प्रणाम करनेकेलिए आनेवाले देवताओंकी पङ्कि ही जिसका मार्ग है, प्रखर वेगवान् चक्रके द्वारा पिसे हुए ताराओंके चूर्ण ही जिसका धूलि है, मेरु कन्दराओंको पूर्ण करने वाला नेमिनाद ही अश्वोंके हिनहिनाहट हैं, पृथिवीमें जैसे आकाशमें भी वैसे चिह्न प्रकटित करनेवाला उष्णांशुके रथ आप लोगोंकी रक्षा करें ॥६९॥
आङ्ग्लार्थः-- The Chariot of the Sun leaves its impressions in heaven as in earth. The line of heaven-dwellers coming to offer prayer is its path. The powders of the stars pounded by swiftly moving wheel are its dust. The sound of the rims that fill in the caves of Meru, is the neighing of horses. May that Chariotof the Sun protect you. 69
తెలుగు అర్థం--
రథం భూమిమీద పయనించేటప్పుడు మార్గం తెలుసుకోవటానికి భూమి పైన ఏవో కొన్ని చిహ్నాలు కనిపిస్తాయి. కానీ ఆకాశమార్గాన గుర్తులేమిటి? దేవతల వరుసలు, నక్షత్రధూళి, పాలపుంత మార్గం, మయూర క్రేంకారాలు – ఇవి సూర్యమార్గపు చిహ్నాలు.
అదిగో అటువైపు అపరంజి వెలుగులు ప్రసరిస్తున్నాయి. లోకబాంధవుని రథం వస్తున్నది.
సూర్యదేవుడు వస్తాడని సురకోటి అంతా నిలబడి అంజలి ఘటించి ఆదిత్యహృదయం పఠిస్తూ ప్రతీక్షిస్తున్నది. స్వామికి అర్ఘ్య పాద్యార్చనకై బారులు తీరారు దేవతలు. అందువల్ల అదే మార్గమని తెలుస్తున్నది. రథచక్ర ధాటికి లక్షల నక్షత్రాలు చూర్ణమై సన్నని ధూళిగా తయారైయాయి.
గుఱ్ఱాలు సకిలింపు ధ్వనులే మేరుపర్వత గుహలలోపల నేమిధ్వనులుగా వినబడుతున్నాయి. ఆకాశంలో కూడా భూమి మీదలా మార్గచిహ్నాలను కనిపింపచేస్తున్న సూర్యరథం శుభములనొసగుగాక.
----------------
आधारपुस्तकस्य परिचयः--
सूर्यशतकम्
व्याख्याकारः—पण्डित श्रीभुवनेश्वर कर शर्मा
व्याख्यानसहकारी—पण्डित श्रीमहेश्वर आचार्य शर्मा
आङ्ग्लानुवादः—दीनबन्धु कर
हिन्द्यनुवादः—कमलालोचन कर
चौखम्बा संस्कृत सीरीज़् अफिस्
మయూర క్రేంకృతి
(మయూరుని సూర్య శతకమునకు గద్యపద్యానుకృతి)
జంధ్యాల వేంకటేశ్వర శాస్త్రి “శాంతి శ్రీ”
ప్రశాంతి నిలయం, పుట్టపర్తి, అనంతపురం జిల్లా

No comments:
Post a Comment